________________
३९८
हैमनूतनलघुप्रक्रिया संख्याया अधिकशब्दाच्च परस्य शाण कुलिजशब्दवर्जितस्य परिमाणवाचिनः संवत्सरशब्दस्य च णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवत्यसंज्ञायां विषये । अद्विरिति किम् ? द्वाभ्यां शुर्पाभ्यां क्रीतं द्विशूर्पम् । अत्रो लुप् । तेन क्रीतं द्विशौपिकम् । पित्त्वं पुंवद्भावार्थम् । ___मूल्यैः क्रीते ।६।४।१०५॥ मूल्यवाचिनस्तृतीयान्ताद् “क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्ययाः स्युः। प्रस्थेन क्रीतं प्रास्थिकम् , साप्ततिकम् । पाणिकम् ।
पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् ।।४।१५६॥ पृथिवी सर्वभूमिशब्दाभ्यां षष्ठ्यन्ताभ्यामीश-ज्ञातयोस्तस्य हेतुः, संयोग, उत्पात इत्येतस्मिन् विषये चाऽञ् प्रत्ययो भवति । पृथिव्या ईशः स्वामी पार्थिवः । सर्वभूमेः सार्वभौमः। एवं पृथिव्या ज्ञातो हेतुः संयोग उत्पातो वा पार्थिवः। एवं सार्वभौमः॥ ____लोकसर्वलोकाज्ज्ञाते ।६।४।१५७॥ लोक-सर्वलोक 'शब्दाभ्यां षष्ठ्यन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकण् प्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकैः ।।
मानम् ।६।४।१६९॥ प्रथमान्तात् षष्ठ्यर्थे यथा१-अनुशतिकादित्वादुभयपदवृद्धिः । सर्वभूमेरीशादिः। २-सर्वलोकस्य ज्ञातः । अनुशतिकादित्वादुभयपदवृद्धिः ।