SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९६ नूतनहैमलघुप्रक्रिया शब्दस्य च पन्यादेशः। पन्थानं नित्यं याति पान्थः। पाँन्था ॥ निवृत्ते ।६।४।१०५॥ कालबाचिनस्तृतीयान्तान्निवृत्तेऽर्थे इकण प्रत्ययो भवति । अहना निवृत्तमाहूनिकम् । मासिकम् ॥ ___ त्रिंशद्विशतेर्डकोऽसंज्ञायामाहदर्थे ।६।४।१२९॥ त्रिंशद् विंशति इत्येताभ्यां आ-अहंदर्थाद योऽर्थों वक्ष्यते क्रीतादिस्तस्मिन् डकः प्रत्ययो भवति, कापवादः, न चेत्प्रत्ययान्तं कस्यचित् संज्ञा भवति । त्रिंशता क्रीतं त्रिंशकम् ॥ विंशतेस्तेडिति ७।४।६७॥ विंशतिशब्दस्याऽपदसंज्ञकस्य यस्तिशब्दस्तस्य डिति तद्धिते परे लुग भवति । विंशत्या क्रीतं विंशकम् । त्रिंशतमर्हति त्रिंशकः । विंशकः। एवमन्यत्रापि ॥ संख्याडतेश्वाऽशत्तिष्टेः कः ।६।४।१३०॥ शदन्तत्यन्त-ष्ट्यन्तवर्जितायाः संख्याया डतिप्रत्ययान्ताच्च त्रिंशद' विंशतिभ्यां च आहेदर्थे का प्रत्ययो भवति । द्वाभ्यां क्रीतम् द्विकम् , पञ्चकम् । कतिभिः क्रीतं ३-स्त्रियामदन्तत्वादाप् । ४ अनीनादित्यकारलुक् । १-डित्त्वादन्त्यस्वरादिलोपः । २-पदान्तवान्नाम्नो न इति न लुक् । नामसिदिति पदसंज्ञा बोध्या ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy