________________
हैमनूतनलघुप्रक्रिया
३९५ सप्तम्यन्तेभ्यो वसत्यर्थे इकण प्रत्ययो भवति । निकटे वसति नैकटिकः। वृक्षमूले वार्भमूलिकः ॥
सतीर्थ्यः ।६।४।७८॥ समानतीर्थशब्दात्तत्र वसत्यर्थे यः प्रत्ययो निपात्यते समानशब्दस्य च सभावः। समानतीर्थे वसति सतीर्थ्यः। तीर्थमिह गुरुरुच्यते ॥ . देवव्रतादीन् डिन् ।४८३॥ देवव्रतादिभ्यो द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती। अवान्तरदीक्षां चरत्यवान्तरदीक्षी । महाव्रती ॥
तद्यात्येभ्यः ।६।४।८७॥ क्रोशशत योजनशत योजन इत्येभ्यो द्वितीयान्तेभ्यो याति गच्छत्यर्थे इकण् प्रत्ययो भवति । क्रोशशतं याति क्रौशशतिकः । यौजनशतिकः यौजनिकः। - पथ इकट् ।६।४।८८॥ पथिन् शब्दाद् द्वितीयान्ताद् यात्यर्थे इकट् प्रत्ययो भवति । पन्थानं याति पथिकः । पथिकी ॥
नित्यं णः पन्थश्च ।६।४।८९॥ पथिन्शब्दाद द्वितीयान्तानित्यं यात्यर्थे णः प्रत्ययो भवति पथिन्
१-डित्त्वादन्त्यस्वरादिलोपः । २-नोपदस्येत्यन्त्यरादिलोपः ।