________________
हैमनूतनलघुप्रक्रिया परदारादिभ्यो गच्छति ।६।४।३८॥ परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण प्रत्ययो भवति । परदारान् गच्छति पारदारिकः ॥
समूहात्समवेते ६४।४६॥ समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तदेकदेशीभूतेऽर्थे इकण् प्रत्ययो भवति । समूहं समवैति सामूहिकः । सांसदिकः, सामाजिकः, गौष्ठिकः।
पर्षदो यः ।६।४।४७॥ पर्षच्छन्दाद् द्वितीयान्तात् समवेतेऽर्थे ण्यः प्रत्ययो भवति । पार्षद्यः, परिषच्छब्दादपि पारिपद्यः ॥
सेनाया वा ॥४॥४८॥ सेनाशब्दाद् द्वितीयान्तात् समवेतेऽयं ण्यः प्रत्ययो वा भवति । सेनां समवैति सैन्यः । पक्षे समूहार्थादिकण, सैनिकः ॥
धर्माधर्माचरति ।६।४।४९॥ धर्म अधर्म इत्येताभ्यां द्वित्तीयान्ताभ्यां चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः॥
तदस्य पण्यम् । प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति, प्रथमान्तं चेत्पण्यं विक्रेयं भवति । अपूपाः पण्यमस्य आपूपिकः । मौदकिकः ॥