________________
३९३
हैमलघुनूतनप्रक्रिया शिल्पम् ।।४।५७॥ प्रथमान्तादस्येत्यर्थे इकण् प्रत्ययो भवति, प्रथमान्तं चेत् शिल्प भवति । शिल्पं कौशलं विज्ञानप्रकर्षः। शिल्पनिर्वर्त्यः क्रियाविशेष इह शिल्पशब्देन लक्षितो बोध्यः । नृत्तं शिल्पमस्य नातिक, गैतिकः, वादनिकः । वीणा-वीणावादनं शिल्पमस्य वैणिकः। मार्दङ्गिकः। ईदृशस्थले वीणादयः शब्दा वादनार्थे सन्तः . प्रत्ययमुत्पादयन्तीति बोध्यम् ॥
शीलम् ।६४.५९॥ प्रथमान्तारस्येत्यर्थे इकण प्रत्ययो भवति प्रथमान्तं चेच्छीलं भवति । अपूपा अपूपभक्षणं शीलमस्येत्यापूपिकः । ताम्बूलिकः ॥
अस्थाच्छन्नादेर ।६।४।६०॥ अप्रत्ययान्तात्तिष्ठतेश्छत्रादिभ्यश्च तदस्य शीलमित्यस्मिन् विषये अञ् प्रत्ययो भवति । आस्थो शीलमस्य आस्थः । वैयवस्थः। गुरोदर्दोषावरणं छत्रम् , तच्छीलमस्य छात्रः, चुरा शीलमस्य चौरः, चौरी । तापसः, कार्मः । भैक्षः ॥
प्रहरणम् ।।४।६२॥ प्रथमान्तादस्येत्यर्थे इकण प्रत्ययो भवति प्रथमान्तं चेत् प्रहरणं भवति । असिा अहरणमस्येत्यासिकः । धानुष्कः । मौद्गस्किः ॥ १-उपसर्गादात इत्यङ् । आस्था शीलमस्य । २-य्यः पदान्तादित्यैः । व्यवस्था शीलमस्य । ३-स्त्रियामञन्तत्वान्डीः । ४-नोऽपदस्येत्यन्त्यस्वरादि लोपः । ५-नामिनस्तयोरिति षत्वम् , ऋवर्गोवणेतीकारलोपः ।