SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रकिया नामिनस्तयोः षः ।२।३८॥ नामिन उत्तरस्य रेफस्य पाश-कल्प-क-काम्येषु प्रत्ययेषु परेषु सत्सु पो भवति । धनुषा जीवति धानुष्कः। वेशेन जीवति वैशिकः । व्यस्ताच क्रयविक्रयादिकः ।६।४।१६॥ क्रयविक्रयशब्दाद् ज्यस्तात्समस्ताच्च तेन जीवत्यर्थे इक: प्रत्ययो भवति । क्रयविक्रयेण जीवति क्रयविक्रयिकः, क्रयिकः विक्रयिकः ॥ भावादिमः ।६।४।२१॥ भाववाचिनस्तेन निवृत्तमित्यर्थे इमः प्रत्ययो भवति । पाकेन निवृत्तं पाकिमम् , सेकिमम् . त्यागिमम् , सम्मूर्छिमम् ॥ रक्षदुञ्छतोः ।६।४।३०॥ द्वितीयान्ताद् रक्षत्युञ्छति चार्थे इकण प्रत्ययो भवति । समाज रक्षति सामाजिकः । बदराण्युञ्छति बादरिकः॥ पक्षिमत्स्यमृगार्थाद घ्नति ।६।४।३१॥ द्वितीयान्तेभ्यः पक्ष्यर्थेभ्यो मत्स्यार्थेभ्यो मृगार्थेभ्यश्च घनत्यर्थे इकण् प्रत्ययो भवति । पक्षिणो हन्ति पाक्षिकः, शाकुनिकः । मात्स्यिकः, मैनिकः, मार्गिकः, हारिणिकः, सौकरिकः॥ १-नाम सिदिति पदत्वाद्रुत्वेऽनेन षः, ऋवर्णोवणेतीकारलोपः । २-सम्मू छया निवृत्तमित्यर्थः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy