________________
३९०
हैमनूतनलघुप्रक्रिया भवति । उडुपेन तरति औडुपिकः। गोपुच्छेन तरति गौपुच्छिकः॥ ____ नौ-द्विस्वरादिकः।६।४।१०। नौशब्दाद् द्विस्वराच्च तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः। घटेन तरति घटिकः। बाहुभ्यां तरति बाहुकः, बाहुका ॥ ___ चरति ।६।४।११॥ तृतीयान्ताच्चरत्यर्थे इकण प्रत्ययो भवति । चरतिरिह गत्यर्थों भक्षणार्थश्च । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः।
पादेरिकट १६।४।१२॥ पर्यादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पपिकः। अश्विकी। अश्वथिकः, रथिकः , अध्यिकः, व्यालिकः, व्याप्तिकः, ।
पदिकः ।६।४।१३॥ पादशब्दातृतीयान्ताच्चरत्यर्थे इकट् प्रत्ययो भवति, पादस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः । पदिकी ॥
वेतनादे र्जीवति।६।४।१५॥ वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण प्रत्ययो भवति । वेतनेन जीवति वैतनिकः। ३-ऋवर्णोवणेतीकारलोपः । ४-नो पदस्येत्यन्यस्वरादिलक् । ५-स्त्रियां टित्वान्डीः ।