SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया भवति । अझै जितमाक्षिकम् । जयदाद्यर्थेषु कालविवक्षा नास्ति। अक्षरजैपीज्जयति जेष्यति वा आक्षिकः। अर्दीव्यति आक्षिकः। अध्या खनति आधिकः । करणतृतीयान्तादेव, नेह देवदत्तेन जितम्, धनेन जितम् ॥ ___ संस्कृते ।६।४।४। तृतीयान्तात् संस्कृतेऽर्थे इकण् प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम् । उपाध्यायेन संस्कृत औपाध्यायिकः शिष्यः। विद्यया संस्कृतो वैधिकः॥ - - संसृष्टे ।६।४।५॥ तृतीयान्तात्संसृष्टेऽर्थे इकण् प्रत्ययो भवति । मिश्रणमात्रं संसर्ग इति: संस्कृताद् भेदः । दध्ना:संसृष्टं दाधिकम् , विषेण संसृष्टा वैषिक्यो भिक्षाः। अशुचिना संमृष्टमाशुचिकमन्नम् ।। लवणादः ।६।४।६॥ लवणशब्दात्ततीयान्तात् संसृष्टेऽर्थे अकारः प्रत्ययो भवति । लवणेन संसृष्टोः लवणः सूपः । व्यञ्जनेभ्य उपसिक्ते ।६।४।४॥ व्यञ्जनवाचिनस्तृतीयान्तादुपसिक्तेऽर्थे इकण प्रत्ययो भवति । सूपेनोपसिक्तैः सौपिक ओदनः । एवं दाधिको घातिक इत्यादि । तरति ।६।४।९॥ तृतीयान्तात्तरत्यर्थे इकण् प्रत्ययों १-अवर्णेवर्णस्येत्यलोपः । २-यद्यप्युपसेकः संसर्ग एव, तथापि व्यञ्जनेभ्य एवोपसिक्ते एवेत्युभयत्र नियमार्थ सूत्रम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy