________________
३८६
हैमनूतनलघुप्रक्रिया धानपतः। आश्वपतः। गाणपतम् , पाशुपतम् एवमन्येऽपि ॥
अनिदम्यणपवादे च दियदित्यादित्ययमपत्यु त्तरपदाच्यः ।३।१।१५।। दिति-अदिति-आदित्य-यमशन्देभ्यः पत्युत्तरपदाच्च प्रागजितीये इदमर्थवर्जितेऽपत्यादा वर्थे योऽणपवादः प्रत्ययस्तद्विषये च व्यः प्रत्ययो भवति । दितेरपत्यं दैत्यः, अदितेरपत्यमादित्यः ।
दितिरदितिरादित्यो वा देवताऽस्य दैत्यमादित्यमादित्यम् । यमो देवताऽस्य याम्यम् । बृहस्पतेरपत्यं बार्हस्पत्यः । प्राजापत्यम् , वानस्पत्यम् ।। - बहिषष्टीकण् च ।६।१।१६॥ बहिस् शब्दात् प्राग्जितीयेऽर्थे टीकण् प्रत्ययो भवति व्यश्च । बहिर्जातो बाहीको, बाह्यः, बाह्या ॥ ___ कल्यग्नेरेयण ।६।१।१७। कलि अग्नि इत्येताभ्यां प्राग्जितीयेऽर्थे अनिदम्यणपवादे च एयण प्रत्ययो भवति । कलिर्देवताऽस्य कालेयम् , आग्नेयम् । एवं भवे अणपवादे आगतादौ च बोध्यम् ॥ २-आदिवृद्धीकारलोपौ । ३-आदिवृद्धीकारलोपौ । ४-आदित्यो देवताऽस्येत्यादित्यं हविः । ज्ये अवर्णेवणेत्यकारलोपे व्यञ्जनादित्यादिना वा यकारलुक् । ५-प्रायोऽव्ययस्येत्यन्त्यस्वरादिलोपः । .