SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ताद्वा तला भवति, ताकम् ॥ हैमनूतनलघुप्रक्रिया ३८५ हेमन्ताद्वा तलुक् च ।६।३।९१।। हेमन्तशब्दातुविशेषवाचिनः शेषेऽर्थे ऽण् वा भवति, तत्सन्नियोगे च तकारस्य लुग्वा भवति । हैमनम् , हैमन्तम् , हैमन्तिकम् ॥ प्रावृष एण्यः ।६।३।९२॥ प्रावृष् इत्येतस्माद् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति । प्रावृषि भवः प्रावृषेण्यः ॥ जाते तु प्रावृष इकः ।६।३९९॥ सप्तम्यन्तात् प्रावृष् शब्दाजातेऽर्थे इकः प्रत्ययो भवति । एण्यापवादः । प्रावृषि जातः प्रावृषिकः ॥ इति शेषाधिकारः॥ __अथ प्रागजितीयाः॥ प्रागजितादण् ।६।१।१३॥ प्रागजितशब्दसंकीर्तनादित आरभ्य पादत्रयं यावत् येऽर्था अपत्यादयस्तेष्वपवादविषयं परित्यज्याण् प्रत्ययो वा भवति । उपगोरपत्यमौपगवः । पशिष्ठया रक्तं वस्त्रं माञ्जिष्ठम् । भिक्षाणां समूहो भैक्षम् । अश्मनो विकार आश्मः । मुध्ने भवः सौघ्न इत्यादि । । धनादेः पत्युः ।६।१।१४॥ धनादेर्मणात्परो यः पतिशब्दस्तदन्ताद् धनपतीत्येवमादेः प्राजिलीयेऽर्थेऽण प्रत्ययो वा भवति । धनपतेरसत्य तत्र भवस्तत आगतो वा । ६-तलोपे अणीत्यन्त्यस्वरादिलोपनिषेधः । १-आदिवृद्धिः, अस्वयम्भुव इत्यव् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy