SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३८४ हैमनूतनलघुप्रक्रिया पूर्वाह्नापराह्नात्तनट् ।६।३८७॥ पूर्वाह्न अपराह्न इत्येताभ्यां कालविशेषवाचिभ्यां शेषेऽर्थे तनट् वा भवति । कालात्तनतरतमकाले ।३।२।२३।। अदन्ताद् व्यञ्जनान्ताच्च कालबाचिनः परस्याः सप्तम्यास्तनतरतमप्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुप् न भवति । पूर्वाह्नेभवं पूर्वाह्नेतनम् । अपराह्नेतनः, अपराह्नतनः । पक्षे इकण् । पौर्वा-- ह्निक इत्यादि ॥ सायंचिरंमाणे प्रगेऽव्ययात् ।६।३।८८॥ सायं चिरं प्रार् प्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् प्रत्ययो नित्यं भवति । साये भवं सायन्तनम् । मान्तत्वं निपातनात् । एवमग्रेऽपि । चिरे भवं चिरन्तनम् । प्राहे भवं प्रगे भवं प्रालेतनम् , प्रगेतनम् । अनयोरेदन्तत्वं निपातनात् । दिवातनम् , दोषातनम् , प्राक्तनम् ॥ ___ भर्तुसन्ध्यादेरण् ।६।३।८९॥ नक्षत्रवाचिभ्य ऋतुवाचिभ्यः सन्ध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽण् प्रत्ययो भवति । इकणोऽपवादः। पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः । नक्षत्राणो लुप् । पुष्ये भवः पौषः । तैषः। ग्रैष्मः। वासन्ती लता। सॉन्ध्यः । आमावास्यः। चातुर्दशः। प्रातिपदः॥ १-अनः पूर्वमिति समासः । २-निपातनान्मान्तत्वे तो मुम इति स्वानुस्वारानुनासिकौ । ३-प्रागित्यव्ययम् । ४-भाणत्वाद् तिष्यपुष्ययोरिति यलोपः । ५-सन्ध्यायां भवो जातो वा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy