________________
हैमनूतनलघुप्रक्रिया
३८३ देशिकः। इह लोके कृतो भवो वा. ऐहलौकिकः, पारलौकिकः॥
वर्षाकालेभ्यः ।६।३।८०॥ वर्षाशब्दात्कालविशेषवाचिभ्यश्च शेषेऽर्थे इकण प्रत्ययो भवति । . ____ अंशाहतोः ७।४।१४॥ अंशवाचिनः शब्दात्परस्य ऋतुवाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णितितद्धितेपरे वृद्धिः स्यात् । वर्षामु भवो वार्षिकः, पूर्ववार्षिकः, मासिकः, सांवत्सरिकः, अह्नि भवं जातं वा आह्निकम् । एवं देवसिकमित्यादि ।
निशाप्रदोषात् ६३८३॥ निशाप्रदोषशब्दाभ्यां कालवाचिभ्यां शेषेऽर्थे इकण् वा भवति । नैशिकं तमः। पक्षेऽण् नैशम् । प्रादोषिकः, प्रादोषः ॥ ___ चिरपरुत्परारेस्त्नः ।६।३।८५॥ चिर, परुत् , परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽर्थे त्नः प्रत्ययो भवति वा । चिरत्नम् , परुत्नम् , परारित्नम् । पक्षे तनट् ॥
पुरो नः ।६।३१८६॥ पुराशब्दात्कालवाचिनोऽव्ययाच्छेषेऽथै नः प्रत्ययो भवति वा । पुरा भवं पुराणम् । पक्षे तनट् ॥
४-अनुशतिकादित्वादुभयपदवृद्धिः।