________________
हैमनूतनलघुप्रक्रिया
३८१ गहादिभ्यः ।६।३।६३।। गहादिभ्यो यथासम्भवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययो भवति । गहीयः, अन्तस्थीयः। समीयम् , विषमीयम् , उत्तमीयः, उत्तरीयम् , अन्तरीयम् , स्वकीयम् , देवकीयम् ॥
पृथिवीमध्यान्मध्यमश्चास्य ।६।३।६४॥ पृथिवी-. मध्यशब्दाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति । पृथिवीमध्यशब्दस्य मध्यमादेशश्च भवति । पृथिवीमध्ये जातो भवो वा मध्यमीयः॥
वा युष्मदस्मदोऽनीनो युष्माकाऽस्माको चास्यैकत्वे तु तवकममकम् ।६।३।६७॥ युष्मद् अस्मद् इत्येताभ्यां शेषेऽर्थे अञ् इनञ् इत्येतो प्रत्ययौ वा भवतः, तत्सन्नियोगे च यथासंख्यं युष्मदस्मदोर्युष्माकास्माको, एकत्वविशिष्टे त्वर्थे वर्तमानयोस्तयोस्तवकममकावादेशौ भवतः । इह प्रत्यये नास्ति यथासंख्यम् । युष्माकमयं युवयोर्वा यौष्माकीणः। यौष्माकः। अस्माकमावयोर्वा आस्माकः, आस्माकीनः। पक्षे दोरीयः। युष्मदीयः, अस्मदीयः। तवायं तावकः, ममायं मामकः, तावकीन:, मामकीनः । पक्षेत्वदीयः, मदीयः॥
अमोऽन्तावोधसः ।६।३।७४॥. अन्त अवस् अधस् इत्येतेभ्यः शेषेऽर्थे अमः प्रत्ययो भवति । अन्ते भवोऽन्तमः १-रघुवर्णादिति णः । २-त्वमौ प्रत्ययेति त्वामादेशौ ।