________________
. ३८०
हैं मनूतन लघुप्रक्रिया
तदीयैः, शालायां भवः शालीयः । पाणिनिना प्रोक्तं पाणि
नीयम् ॥
उष्णादिभ्यः कालात् || ६ | ३ | ३४|| उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थं ईयः प्रत्ययो भवति । उष्णकाले भव • उष्णकालीयः ॥
व्यादिभ्यो णिकेकणौ | ३ | ३|३४|| वि इत्येवमादिभ्यः परो यः कालशब्दस्तदन्ताच्छेषेऽर्थे णिक इकण् इत्येतौ प्रत्ययौ भवतः । विकाले भवो वैकालिकः, वैकालिका । वैकालिकी, । दशवैकालिकम्, तात्कालिकम् ॥
काश्यादेः | ६|३|३५|| काश्यादिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकणू इत्येतौ प्रत्ययौ भवतः । काशिकी वृत्तिः, करणे भवः कारणिकः । युवराजे भवो यौवराजिक; ॥
पर्वतात् | ६|३|६० || पर्वतशब्दादेशवाचिनः शेषेऽयें ईयः प्रत्ययो भवति । पर्वतस्यायं पर्वतीयो राजा, पर्वतीयः पुमान् ॥
अनरे वा | ६| ३|६९ || पर्वतशब्दादेशवाचिनो नरवर्जिते "शेषेऽर्थे ईयः प्रत्ययो वा भवति । पर्वतीयानि पार्वतानि फलानि ॥
७ - त्यदादिरिति दुसंज्ञा । ८ - वृद्धिर्यस्येति दुसंज्ञा । मिकणन्तत्वान्ङीः, पूर्वत्रावेवेकान्तत्वात् । वृद्धिर्यस्येति दुसंज्ञा ।
१०- कायां
९- स्त्रिया
जाता ।