SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३७९.. इति दक्षिणस्यामव्ययम् । तत्र भवो दाक्षिणात्यः । श्चिाद्भवः पाश्चात्यः। पुरोभवः पौरस्त्यः ।। क्वेहामात्रतसस्त्यच ।६।३।१६॥ का इह अमा इत्येतेभ्यस्त्रतसूप्रत्ययान्तेभ्यश्च शेषेऽर्थे त्यच् प्रत्ययो भवति । स्वत्यः, इहत्यः, अमात्यः, तत्रत्यः, अत्रत्यः, यत्रत्यः, कुत्रत्यः, ततस्त्यः, यतस्त्यः, कुतस्त्यः ॥ ऐषमोह्यसूश्वसो वा ।६।३।१९।। ऐषमस् ह्यस् श्वस इत्येतेभ्यः शेषेऽर्थे त्यच् प्रत्ययो वा भवति । ऐषमो भवमैषमस्त्यम् । ह्यस्त्यम् , श्वस्त्यम् । पक्षे तनट् ॥ __ भवतोरिकणीयसौ ।६।३।३०॥ भवतुशब्दाच्छेषेऽर्थे इकण ईयस् इत्येतौ प्रत्ययौ भवतः। भवत इदं भावकम् , भावत्की, भवदीयः, अवदीया ॥ परजनराज्ञोऽकीयः ।६३।३१॥ एभ्यः शेषेऽर्थे यकीयः प्रत्ययो भवति । परस्याऽयं परकीयः, जनकीयः,. राज्ञ इदं राजकीयम् ॥ दोरीयः ।६।३॥३२॥ दुसंज्ञकाच्छेषेऽर्थे ईयः प्रत्ययो भवति । देवदत्तीयः। दुसंज्ञाविकल्पे त्वणेव । देवदत्तः । १-धुटस्तृतीयः, अघोषे प्रथमः । २-सस्य रुत्वे चटत इति सः । ३-ऋवर्णोवर्णेतीकारलुक् । ४-ईयसः सित्त्वान्नामसिदिति पदत्वे धुटस्तृ-. तीयः । ५-नोऽपदस्येत्यन्त्यस्वरादिलोपः । ६-संज्ञादुर्वेति वा दुसंज्ञा ।..
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy