SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया औत्तराहा स्त्री। औत्तराहीति तूत्तराहीशब्दाद् भवेऽऽणि स्त्रियां कीः॥ पारावारादीनः ६३६॥ पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । पारावारे भवः पारीवारीणः ।। व्यस्तव्यत्यस्तात् ॥६॥३७॥ पारावारशब्दाद्वयस्ताद्विपर्यस्ताच शेषेऽर्थे ईनः प्रत्ययो भवति । पारीणः, अवारीणः, अवारपारीण: ॥ द्यप्रागवागुदक्प्रतीचो यः ६३८॥ दिवशब्दात प्राच अवाच् उदच् प्रतीच् इत्येतेभ्यश्चाऽव्ययानव्ययेभ्यः शेषेऽर्थे यः प्रत्ययो भवति । दिवि भवं दिव्यम् । प्राचि प्राग्वा भवं प्राच्यम् । एवमवाच्यम् , उदीच्य॑म् , प्रतीच्य॑म् । कालपरात्त्वव्ययात्प्रागादेस्तनट् । अनव्ययात्विकण बोध्यः ॥ ग्रामादीनञ् च ।६।३।९॥ ग्रामशब्दाच्छेषेऽर्थे ईन चकाराद् यश्च प्रत्ययो भवति । ग्रामीणः, ग्राम्यः ॥ दक्षिणापश्चात्पुरसस्त्यण् ।६।३।१३॥ एभ्यः शेषेऽर्थे त्यण् प्रत्ययो भवति । अणोऽपवादः। दक्षिणा १-स्त्रियामाप् । २-अवारः समुद्रस्तस्य पारः राजदन्तादित्वात्रनिपातः। पारावारः । रघुवर्णादिति णः । ३-अयीति निषेधादपदत्वाद् उः पदान्त इति न । ४-अपदत्वादुदच उदीच् । ५-अच्च प्राग्दीर्घश्च ।।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy