________________
हैमनूतनलघुप्रक्रिया
- स्रौघ्नः, माथुरः, मैथिलः ॥
अभिजनात् || ६ |३|२१४ ॥ अभिजनः पूर्वबान्धवाः,
प्रथमान्तादभिजनानिवासादस्येति
तेषामयमाभिजनः । षष्ठ्यर्थे यथाविहितमणेयणादयः प्रत्यया भवन्ति । सुनोsस्याssभिजनो निवासः स्रौघ्नः, माथुरः, मैथिलः । साऽस्य पौर्णमासीत्यारभ्य शेषाधिकारस्था अर्थविशेषा: प्रत्ययविशेषाश्रोक्ताः साम्प्रतं सामान्ये शैषिकेऽर्थे प्रत्यया उच्यन्ते ॥
9
३७७
नद्यादेरे |६|३|२ || नद्यादिभ्यो यथासम्भवं प्राग्जितीये शेषेऽर्थे एयम् प्रत्ययो भवति । नद्यां जातो भवो नद्या अयं वा नादेयः । एवं यथासम्भवमन्यस्मिन्नपि शेषार्थे नद्यादेरेयण प्रत्ययो भवति । मह्यां भवो वने भवो वा माहेयः, वानेयः ॥
राष्ट्रादियः | ६|३|३||
राष्ट्रशब्दात्प्राग्जितीये शेषेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः ॥
दूरादेत्यः | ६|३|४|| दूरशब्दाच्छेषेऽर्थे एत्यः प्रत्ययो भवति । दूरे भवो जातो वा दूरेत्यः ॥
उत्तरादाहञ् |६|३|५|| उत्तरशब्दाच्छेषेऽर्थे आहञ्
प्रत्ययो भवति । उचरस्मिन् भवो जातो वौत्तराहः ।
+