SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७६ हैमनूतनलघुप्रक्रिया तच्चेदमिनिष्कामद् द्वारं भवति । सुघ्नमभिनिष्क्रामसि स्रौघ्नं कान्यकुब्जद्वारम् ॥ गच्छति पथि दूते ।६।३।२०३॥ द्वितीयान्ता गच्छत्यर्थे यथाविहितमणादिः प्रत्ययो भवति, योऽसौ गच्छति, स पन्था दूतो वा भवति । मथुरां गच्छति माथुरः पन्था दूतो वा ॥ - भजति ।६।३।२०४॥ द्वितीयान्ताद् भजत्यर्थे यथाविहितमणादिः प्रत्ययो भवति । सुघ्नं भजति स्रौघ्नः, माथुरः, मैथिलः ॥ तसि ।६।३।२११॥ तृतीयान्तात्तुल्यदिश्यर्थे तसिरि त्ययं प्रत्ययो भवति यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । सुदाम्नैकदिक् सुदोमतः सौदामनी वा विद्युत् । तुल्या समाना साधारणा वा दिग् यस्य स तुल्यदिक। एकदिगित्यर्थः। हिमवत्तो हैमवती वा गङ्गा ॥ सेनिवासादस्य ।६।३।२१३॥ प्रथमान्ताषष्ठ्यर्थे यथाविहितमणेयणादयः प्रत्यया भवन्ति प्रथमान्तं चेन्निवासो भवति । निवास इह देशः। सुघ्नो निवासोऽस्य १-पदत्वे नाम्नो न इति नलोपः । २-अणीत्यन्त्यस्वरादिलोपनिषेधः, स्त्रियामणन्तत्वान्डीः । ३-अपदत्वान्न तृतीयः, स्त्रियामणन्तत्वान्डीः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy