________________
हैमनूतनलघुपक्रिया याज्ञवल्क्यानि ब्राह्मणानि ॥
उपज्ञाते ।६।३।१९१॥ प्रथमत उपदेशेन विना की ज्ञातमुपज्ञातं प्रथमतः कृतं वा । उपज्ञातेऽर्थे तृतीयान्तानाम्नो यथाविहितमणेयणादयः प्रत्यया भवन्ति । भद्रबाहुनोपज्ञाता भाद्रबाहवी संहिता ॥ - कृते ।६।३।१९२॥ तृतीयान्तादुत्पादितेऽर्थे यथाविहितमणादयः प्रत्यया भवन्ति । शिवेन कृतो अन्यः शैवः । वररुचिना कृतानि वाररुचानि वार्तिकानि ॥ ___अमोऽधिकृत्य ग्रन्थे ।६।३।१९८॥ द्वितीयान्तादधिकृत्य कृते ग्रन्थेऽर्थे यथाविहितमणादयः प्रत्यया भवन्ति । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः ॥
द्वन्द्वात्प्रायः ।६।३।२०१॥ द्वन्द्वात्समासाद् द्वितीयान्तादधिकृत्य कृते ग्रन्थेऽर्थे प्रायः ईयः प्रत्ययो भवति । वाक्यपदे अधिकृत्य कृतो ग्रन्थो वाक्यपदीयम् । पायो ग्रहणाद् गौणमुख्ये अधिकृत्य कृतो ग्रन्थो गौणमुख्यम् । अत्राणेव ॥ ___ अभिनिष्कामति द्वारे ।६।३।२०२॥ द्वितीयान्तादभनिष्क्रामत्यर्थे यथाविहितमणादिः प्रत्ययो भवति ।
६-स्त्रियामणन्तत्वान्डीः ।