SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७४ . हैमनूतनलघुप्रक्रिया हलसीरादिकम् ।६।३।१६१॥ हलसीर इत्येताभ्यां षष्ठ्यन्ताभ्यामिदमित्यर्थे इकण प्रत्ययो भवति । हालिकम् , सैरिकम् ॥ अदेवासुरादिभ्यो वैरे ।६।३।१६४॥ द्वन्द्वात् षष्ठयन्ताद् देवासुरादिवर्जिताद् इदमर्थं वैरे अकल् प्रत्ययो भवति । काकोलूकस्येदं वैरं काकोलूकिका, अहिनकुलिका ॥ रथात्सादेश्च वोढङ्गे ।६।३।१७५॥ रथात्केवलात् सपूर्वाच्च षष्ठ्यन्तादिदमर्थे यः प्रत्ययो भवति स स्थस्य वोढरि रथाङ्गे एव च भवति । रथस्याऽयं वोढा रथ्योऽश्वः। रथस्येदमङ्गं रथ्यं चक्रं युगं वेत्यादि । इह तु न-रथस्येदं स्थानम् ।। __ वाहनात् ।।३।१७८॥ वाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययो भवति, इदमर्थश्चेद् वाह्य पन्था उपकरण भवति । अश्वस्यायमाश्वो रथः पन्था वा, आश्वं पल्ययनम् । अन्यत्र न-अश्वस्यायं घासः॥ तेन प्रोक्ते ।६।३।१८१॥ प्रकर्षण व्याख्यातमध्यापितं वा प्रोक्तम् । प्रोक्तेऽर्थे तृतीयान्तानाम्नो यथाविहितमणेयणादयः प्रत्यया भवन्ति । भद्रबाहुना प्रोक्तानि भाद्रेवाहवान्युत्तराध्ययनानि । याज्ञवल्क्येन प्रोक्तानि ४-लित्वात् स्त्रियामाप् । अस्याऽयत्तदितीत्वम् । ५-अस्वयम्भुव इत्यव् , दुसंज्ञापक्षे दोरीये भद्रबाहवीयम् , कन्यत्राप्यूह्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy