SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७३ हैमनूत लघुप्रक्रिया कारौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्रसङ्गे ताभ्यामेव प्राकू ऐत् औत् इत्येतावागमौ तद्धिते परे । दौवारिकम् । भवतो णिति नहेतुभ्यो रूप्यमयौ वा | ६ | ३ | १५६ ॥ नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे रूप्य मयट् इत्येतौ प्रत्ययो वा भवतः । देवदत्तरूप्यम्, देवदत्तमयम् । पक्षे यथाप्राप्तम् दैवदत्तम् । समाद्धेतोरागतं समरूप्यम्, सममयम् । पक्षे महादिपाठादीयः । समीयम् ॥ • प्रभवति । ६ । ३ । १५७ || पञ्चम्यन्तात्प्रभवत्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । प्रभवोऽत्र प्रथममुपलभ्यमानता । हिमवतः प्रभवति तत्र प्रथममुपलभ्यते इति हैमवती गङ्गा ॥ त्यदादेर्म | ६ | ३ | १५८ || त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयट् प्रत्ययो भवति । तस्माद् प्रभवति तन्मैयम्, भवन्मयम् || तस्येदम् |६|३|१६०|| षष्ठ्यन्तादिदमित्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । उपगोरिदमौ'पगवम् । स्रौघ्नम् ।। ४--द्वारादायस्थानादागतमित्यर्थः । १ - स्त्रियामणन्तत्वान्ङीः । २ - प्रत्यये चेति पञ्चमः । ३-धुटस्तृतीय इति तृतीये प्रत्यये चेति पञ्चमः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy