SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७२ हैमनूतनलघुप्रक्रिया .. प्रायो बहुस्वरादिकण् ।६।३।१४३॥ बहुस्वराद् ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययो भवति । षत्वणत्वयोाख्यानं तत्र भवं वा पावणविकम् , आख्यातिकम् । नरुक्त इत्यादि तु शिक्षादित्वात् । अत एव प्रायो ग्रहणम् । तत आगते ।६।३।१४९॥ पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । स्रनादागतः सोध्नो दूतः, महेश्वरादागतानि माहेश्वराणि पाणिनिसूत्राणि ॥ .. पितुर्यो वा ।६।३।१५१॥ पितशब्दाद् योनिसम्बन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे यः प्रत्ययो वा भवति । पित्र्यम् । पक्षे ऋत इकण । ६।३।१५२॥ ऋकारान्ताद्विद्यायोनिसम्बन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति । पैतृकम् , मातृकम् , होतकम् ॥ .. ... • आयस्थानात् ।६।३१५३॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदायस्थानमित्युच्यते। आयस्थानवाचिन: पञ्चम्यन्तादागतेऽर्थे इकण प्रत्ययो भवति । आपणिकम् , ...द्वारादे :१७४६॥ द्वार इत्येवमादीनां यौ यकारव२-ऋतो र इति रः । ३-ऋवर्णोवणेतीकारलुक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy