SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७१ हैमनूतन लघुप्रक्रिया भैरवर्गीणः । भरतवर्ण्यः, भरतवर्गीयः । शब्दे तु पूर्वेण वर्गीय इत्येव ॥ चतुर्मासानाम्नि |६|३|१३३|| चतुर्मासशब्दात् सप्तम्यन्ताद् भवेऽर्थेऽण् प्रत्ययो भवति समुदायचे नाम भवति । चतुर्षु मासेषु भवा चतुर्मासी, आषाढी कार्तिकी फाल्गुनी च पौर्णमासी भण्यते जैनैः । गम्भीरपञ्चजनबहिर्देवात् | ६ | ३ | १३५ || एभ्यस्तत्र भवे व्यः प्रत्ययो भवति । गाम्भीर्यः पाञ्चजन्यः ॥ प्रायोऽव्ययस्य |७|४ | ६५ || अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्त्यस्वरादेः प्रायो लुग् भवति । बहिर्भवो बाह्यः, देव्यः ॥ छन्दसो यः | ६|३|१४७ ॥ छन्दः शब्दाद् ग्रन्थचाचिनस्तस्य व्याख्याने तत्र भवे चार्थे यः प्रत्ययो भवति । छन्दसो व्याख्यानं तत्र भवो वा छन्देस्यः ॥ शिक्षादेवाण | ६ | ३ | १४८ || शिक्षादिभ्यः छन्द:शब्दाच्च ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थेऽण् प्रत्ययो भवति । शिक्षाया व्याख्यानं तत्र भवो वा शैक्षः, नैरुक्त इत्यादिः ॥ २-सृर्णादिति णः । ३–तंद्वितार्थे समासः, द्विगोर्लुगिति लुक् तु न, विधानसामर्थ्यात् । १ - अपदस्वाद्रुर्न ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy