SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ३६९. आर्धमासिकम् । सांवत्सरिकम् । साधुपुष्यत्पच्यमाने | ३ | ३ | ११७ || सप्तम्यन्तात्कालविशेषवाचिनः साधौ पुष्यति पच्यमाने चार्थे यथाविहितमणादिरिकणादिश्च प्रत्ययो भवति । शिशिरे साधु शैशिरं तैलम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥ उप्ते |६|३|११८|| सप्तम्यन्तात् कालवाचिन उप्तेऽर्थे यथाविहितमणादिरिकणादिश्च प्रत्ययो भवति । शरघुप्ताः शारदा यवाः ॥ व्याहरति मृगे | ६ | ३ | १२१ ॥ सप्तम्यन्तात् कालवाचिनो व्याहरत्यर्थे यथाविहितमणिकणादयः प्रत्यया भवन्ति व्यावेन्मृगो भवति । निशायां व्याहरति नैशिको नैशो वा शृगालः । इकण् पक्षेऽण् ॥ जयिनि च । ६ | ३ | १२२ ॥ सप्तम्यन्तात् कालवाचिनो जयिन्यर्थे यथाविहितमणिकणादयः प्रत्यया भवन्ति । निशासहचरितमध्ययनं निशा, तत्र जयी: साभ्यासो नैशिको नैशो वा बटुः । निशाध्ययनाभ्यासवानित्यर्थः ॥ * भवे | ६ | ३|१२३ ॥ सप्तम्यन्ताद् भवेऽर्थे यथावितितुमणादय एयणादयश्व प्रत्यया भवन्ति । लुध्ने भवः १ - मासस्यार्थमर्षमासस्तत्र देवमृणमित्यर्थः । २- स्त्रियामनन्तत्वान्डीः । - २४
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy