________________
३६८
हैमनूतनलघुप्रक्रिया तत्र कृतलब्धक्रीतसम्भूते ।६।३।९४॥ सप्तम्यन्तास्कृते लब्धे क्रीते सम्भूते चार्थे यथायोगमणादय एयणादयश्च प्रत्यया भवन्ति । यदन्येनोत्पादितं तत्कृतम् । यत्प्रतिग्रहादिना प्राप्तं तल्लब्धम् , यन्मूल्येन स्वीकृतं तत्क्रीतम् , यत्सम्भाव्यते संमाति वा तत्सम्भूतम् । सुघ्ने देशविशेषे कृतो लब्धः क्रीतः सम्भूतो वा सौनः ॥
कुशले ।६।३।९५॥ सप्तम्यन्तात्कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । मथुरायां कुशलो माथुरः॥
जाते ।६।३।९८॥ सप्तम्यन्ताद् जातेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । मथुरायां जातो माथुरः। मिथिलायां जातो मैथिलः ॥
सोदर्यसमानोदयौँ ।६।३।११२॥ सोदर्यसमानोदर्यशब्दौ जातेऽर्थे यप्रत्ययान्तौ निपात्येते । समानोदरे जातः सोदर्यः समानोदयः। निपातनात्पक्षे समानस्य सभावः। भ्रातृष्वेवाऽभिधानमेतन्न कृमिमलादिषु, निपातनादेव । नाम्नीत्यधिकाराद्वेति बोध्यम् ॥
कालाद्देये ऋणे ।।३।११३॥ साम्यन्ताकालविशेषवाचिनो देयेऽर्थे सवाकिहितममादिः प्रत्यायो भवति यत्तद्देयं तच्चेणं भवति । मासे देवपण मासिकम् ,