________________
हैमनूतनलघुप्रक्रिया
३६७ शूलोखाद्यः ।६२।१४१॥ शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्येऽर्थे यः प्रत्ययो भवति । शुले संस्कृतं शूल्यं मांसम् । उखायामुख्यम् ॥
क्षीरादेयण ।६।२।१४२॥ क्षीरशब्दात्सप्तम्यन्तात्संस्कृते भक्ष्येऽर्थे एयण प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्य क्षैरेयम् ॥
दधन इकण ।६।२।१४३॥ दधिशब्दात्सप्तम्यन्तासंस्कृते भक्ष्येऽर्थे इकण् प्रत्ययो भवति । दध्नि संस्कृतं भक्ष्यं दाधिकम् ॥
क्वचित् ।६२।१४५।। अपत्यादिभ्योऽन्यत्राप्यर्थे क्यचिद्यथाविहितमणादिः प्रत्ययो भवति । चक्षुषा गृह्यते इति चाक्षुषं रूपम् । श्रावणः शब्दः । रासनो रसः। वाचः स्पर्शः। दृशदि पिष्टा दादाः सक्तवः। सम्प्रति युज्यते सांप्रतं साम्प्रतः । एवमन्येऽपि प्रयोगा यथादर्शनमुन्नेयाः ॥ इति साऽस्य देवताद्यर्थप्रक्रिया ॥
॥ अथ शैषिक प्रक्रिया ॥ शेषे ।६३।१॥ अधिकारोऽयम् । उपयुक्तादन्यः शेषः । अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः। स च प्रारजितात्कृतादिरर्थः सप्तदशसंख्याकः । तत्रादौ बोधसौकर्याय कृतार्थेषु प्रत्येकं प्रत्यया · उच्य. न्ते । पश्चाच्छेपेऽयें वक्ष्यन्ते ॥