________________
३६६
हैमनूतनलघुप्रक्रिया
गोतमेन प्रोक्तं गौतमम् । अणु । तद्वेत्यधीते वेति गौतमः, अणो लुप् । गौतमा । भद्रबाहुना प्रोक्तं भाद्रबाहवं 'वेधीते वा भाद्रबाहवः । भाद्रवाहवाः ॥
तेन छन्ने रथे |६|२| १३१|| तृतीयान्ताच्छने रथे वाच्ये यथाविहितमणादिः प्रत्ययो भवति । वत्रेण छन्नो रथो वास्त्रः । चर्मणा छन्नो रथश्वार्मणः ||
तत्रोद्धृते पात्रेभ्यः | ६।२।१३८ ॥ सप्तम्यन्तात्पात्रवाचिन उद्धृत इत्यस्मिन्नर्थे यथाविहितमणादिः प्रत्ययो भवति । शरावेषूद्घृत ओदनः शारावः ॥
स्थण्डिलाच्छेते व्रती | ६ |२| १३९ || स्थण्डिलशब्दात्सप्तम्यन्ताच्छेते इत्यस्मिन्नर्थे यथाविहितमणादिः प्रत्ययो भवति, योऽसौ शेते स चेद् व्रती भवति । स्थण्डिल एव शेते स्थाण्डिलो भिक्षुः । शयनान्निवृत्त इत्यर्थः ॥
अन्यत्र
संस्कृते भक्ष्ये |६|२| १४० || सप्तम्यन्तात्संस्कृते भक्ष्येऽर्थे यथाविहितमणादिः प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः । भ्रष्ट्रे संस्कृता भ्रष्ट्रा यवाः । भ्रष्ट्रा अपूपाः ।।
६ - अत्राणो लुप्तत्वादणन्तत्वाभावान्न ङीः, किन्त्वा बेव, पूर्वोऽण् - तु गौण इति ध्येयम् । ७ - अणीत्यन्त्यस्वरादिलोपनिषेधः . त्वम्
आदिवृद्धिः ।