________________
हैमनूतनलघुप्रक्रिया
३६५ न्यायादेरिकण् ।६।२।११८॥ न्यायादिभ्यो वेत्त्यधीते वेत्यर्थे इकण प्रत्ययो भवति । न्यायं वेत्त्यधीते वा नैयायिकैः । नैयासिकः॥
पदक्रमशिक्षामीमांसासाम्नोऽकः ।।२।११६॥ पदादिभ्यस्तद्वेत्त्यधीते वेत्यर्थे अकः प्रत्ययो भवति । पदकः, क्रमकः, शिक्षकः, मीमांसकः सामकः॥ ... __ स-सर्वपूर्वाल्लुप् ।६।२।१२७॥ सशब्दपूर्वात्सर्वशब्द. पूर्वाच्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप भवति । सवात्तिकः, ससंग्रहः । अत्राणो लुम् ।।
संख्याकात् सूत्रे ।६।२।१२८॥ संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तास्सूत्रे वर्तमानानाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् भवति । अष्टावध्यायाः परिमाणमस्येत्यष्टकं सूत्रम् । तद्वेत्त्यधीते वा अष्टकाः पाणिनीयाः। दशाऽध्यायाः परिमाणमस्येति दशकं सूत्रम्, तद्विदन्त्यधीयते वा दशका उमास्त्रातीयाः। परिमाणे वक्ष्यमाणः कः, ततोऽणो लुप् ॥
प्रोक्तात् ।।२।१२९॥, प्रोक्तार्थप्रत्ययान्तानाम्नोवेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् भवति । २-य्वः पदान्तादित्यैत् । ३न्यासमधीते वेत्ति वा । वः पदान्तादित्यैत् । ४-शिक्षामधीते वेत्ति वा । आलोपवृद्धी । ५-नोऽपदस्येत्यन्त्यस्वरादिलोपः । ........