SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३६३ नस्तं मत्वर्थे ।१।१।२३॥ सकारान्तं तकारान्तं च नाम मत्वर्थे प्रत्यये परं पदसंज्ञं न भवति । वेतस्वान् । महिष्मान् ॥ नडशादाबलः ।६।२।७५॥ नड शाद इत्येताभ्यां डित्वलः प्रत्ययो भवति । नड्वलं शाद्वलम् ।। ___इति चातुरर्थिकाः॥ साऽस्य पौर्णमासी ।६।२।९८॥ प्रथमान्तात् षष्ठ्यर्थे यथाविहितमणादिः प्रत्ययो भवति, यत्तत्प्रथमान्तं तच्चेत्पौर्णमासी भवति, प्रत्ययान्तं चेन्नाम स्यात् । पौषी पौर्णमासी अस्य पौषो मासः, माघः, वैशाखः ॥ देवता ।६।२।१०१॥ प्रथमान्तात् षष्ठ्यर्थे यथाविहितमणादिः प्रत्ययो भवति यत्तत्प्रथमान्तं देवता चेत्सा भवति । अर्हन् देवताऽस्येत्यार्हतः। जैनः, ऐन्द्रं हविः, वारुणश्चरुः ॥ महेन्द्राद्वा ।६।२।१०३॥ महेन्द्रशब्दात्साऽस्य देवतेत्यस्मिन् विषये ईय इय इत्येतौ प्रत्ययौ वा भवतः । महेन्द्रीयम् , महेन्द्रियम् । पक्षेऽण् , माहेन्द्रं हविः ॥ वायवृतुपित्रुषसो यः ।६।२।१०९।। वायु-ऋतु-पितृउपस इत्येतेभ्यः साऽस्य देवतेत्यस्मिन् विषये यः प्रत्ययोः ५-नस्तमिति निषेधादपदत्वाद्रुत्वं न । ६-संज्ञाभङ्गभिया तृतीयो न । १-अपदत्वाद् धुटस्तृतीय इति न ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy