SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६२ मनूत लघुप्रक्रिया मतुः प्रत्ययो भवति प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम भवति ॥ मावर्णान्तोपान्त्यापञ्चमवर्गान्मतोर्मो वः | २ | ११९४ ॥ मावच मावर्णो तौ प्रत्येकमन्त्योपान्त्यौ यस्य तस्मान्मकारान्तान्मकारोपान्त्यादवर्णान्तादवर्णोपान्त्याच्च पञ्चमरहितवर्गान्ताच्च : नाम्नः परस्य मतोर्मकारस्य वकार आदेशो भवति || अनजिरादिबहुस्वरशरादीनां मतौ | ३|२|७८ || अजिरादिवर्जित बहुस्वराणां शरादीनां च मतौ प्रत्यये दीर्घौऽन्तादेशो भवति संज्ञायाम् । उदुम्बरा अस्यां सन्तीत्युदुम्बरावती नदी । शरौवती ॥ मध्वादेः | ६|२|७३ || मध्वादिभ्यश्रातुरर्थिको मतुः प्रत्ययो भवति प्रत्ययान्तं चेद्देशस्य नाम भवति । मध्वस्त्यत्र मधुमान् । बिसवान् ॥ नडकुमुदवेतसमहिषाडित् |६|२|७४ || नडादिभ्यो डिन्मतुः प्रत्ययो भवति चातुरर्थिको देशे नाम्नि । नवान्, कुमुद्वान् ॥ २ - शराः सन्त्यत्रेति । अधातूदिति ङीः । ३ - अभ्वादेरिति दीर्घः । ऋदुदित इति नोन्तः, संयोगान्तलोपः, तस्याऽसत्त्वान्नलोपो न । ४- डित्वादन्त्यस्वरादिलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy