________________
हैमनूतनलघुप्रक्रिया
३६१
शिबीनां निवासः शैबः । शकलाया निवासः शार्कलः । विदिशाया अदूरभवं वैदि शं नगरम् । वैदिशो जनपदः ॥
1
पूर्वपदस्थाद्
रवर्णादकारान्तात्परस्य उत्तरपदस्थस्य नकारस्य णकार आदेशो भवति संज्ञायां विषये । वरं च तदनश्च वरानः, तस्यादूरभवा नगरी वाराणसी, वारणासी ॥
पूर्वपदस्थान्नान्यगः | २|३|६४ ॥
|
तदत्रास्ति |६|२|७० || तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितमणादिः प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेदस्तीति भवति, प्रत्ययान्तं चेद्देशस्य नाम भवति । उदुम्बरा अस्मिन् देशे सन्तीत्योदुम्बरं नगरम् । औदुम्बर: पर्वतो जनपदो वा ॥
तेन निर्वृत्ते च | ३|२|७१ ॥ तेनेति तृतीयान्ताद् निर्वृत्तमित्येतस्मिन्नर्थे यथाविहितमणादिः प्रत्ययो भवति प्रत्ययान्तं चेद्देशस्य नाम भवति । कुशाम्बेन निर्वृत्ता कौशीम्बी नगरी । सहस्रेण निर्वृत्ता साहस्री परिखा । ॥
नद्यां मतुः |६|२|७२॥ तस्य निवासस्तस्यादूरभवस्तदत्रास्ति तेन निर्वृत्तं चेत्येतेषु चतुर्ष्वर्थेषु यथायोगं २ -- अवर्णवर्णस्येत्यालोप आदिवृद्धिः । ३ - आलोपादिवृद्धी । ४ - स्त्रियामणन्तत्वान्ङीः, अस्य ङ्यामित्यलोपः संज्ञायां णत्वम् ।
५ - वरणा
चाऽसिश्च तयोरदूरभवा नगरी । इकारलोपादिवृद्धी । १- अकारलोपादिवृद्धी, स्त्रियामणन्तत्वान्ङीः 1
,