________________
३६०
हैमनूत लघुप्रक्रिया
विवक्षिते बहुलं लुप भवति । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका, मालती, यूथिका । एष्वौषध्यणो दुमयटो वा लुप् । हरिद्राया मूलं हरिद्रा । बाहुलकात्क्वचिन, बैल्वानि पुष्पाणि फलानि वा । क्वचिद्विकल्पः, शिरीषाणि शैरीषाणि वा पुष्पाणि । क्वचिदन्यत्रापि, आमलकस्य विकारो वृक्ष आमलकी, बदरी । स्त्रीत्वं लोकात् ॥
फले |६| २|५८ || विकारेऽवयवे फले विवक्षिते प्रत्ययस्य लुप् भवति । आमलक्या विकारोऽवयवो वा फलमामलकम्, बदरम् । फले लुबन्तस्य क्लीवता । त्रीहिः, यवः । अत्र प्रकृतिलिङ्गता ॥
न वियगोमयफलात् |६| २|६१ || द्रुवयं गोमयं फलजातिवाचि च वर्जयित्वाऽन्यस्मान्नाम्नो विकारावयवयोद्रः प्रत्ययो न भवति । कापोतस्य विकारोऽवयवो वेति दोरप्राणिन इति मयण्न भवति ॥
॥ इति विकाराद्यर्थाः ॥ अथ चातुरर्थिकाः-
निवासादरभव इति देशे नाम्नि | ६ | २|६९॥ षष्ठ्यन्तानाम्नो निवासेऽदूरभव इत्येतयोरर्थयोर्यथाविहितमणादिः प्रत्ययो भवति प्रत्ययान्तं चेद्देशस्य नामधेयं भवति । १- अत्र लुपि यादेर्गौणस्येत्यादिना स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययो बोध्यः ।