________________
है मनूतनलघुप्रक्रिया
३५९
तिलयवादनाम्नि | ६| २|५२ || तिल यव इत्येताभ्यां विकारेऽवयवे च मयट् प्रत्ययो भवत्यनाम्नि । तिलमयम्, यवमयम् । नाम्नि त्वणेव तैलं यावः, स एव यावकः स्वार्थे कः ॥
पिष्टात् |६|२|५३ || पिष्टशब्दाद्विकारे मयटू प्रत्ययो भवत्यनाम्नि | पिष्टमयम् ॥
नाम्नि कः | ६ | २|५४ || पिष्टशब्दानाम्नि विकारे कः प्रत्ययो भवति । पिष्टस्य विकारः पिष्टिका ॥
योगोदोहादीनञ् हियगुचाऽस्य |६| २|५५ ॥ गोate शब्दाद्विकारे नाम्नि इनञ प्रत्ययो भवति तत्सन्नियोगे च प्रकृतेर्हियङ्गु इत्यादेशः । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतं घृतं वा । असंज्ञायामणेव, गोदमुदविदादि ॥
अपो यञ् वा | ६|२|५६ || अप् शब्दाद्विकारे यब् प्रत्ययो वा भवति । अपां विकार आप्यम्, अम्मर्यम् ॥
लुब्बहुलं पुष्पमूले |६| २|५७॥ विकारावयवयोर्विहितस्य प्रत्ययस्य पुष्पे मूले वा विकारतयाऽवयवतया वा
३ - आदित्यापि अस्यायत्तदितीत्वम् । ४- गवां दोहों गोदोहः, ह्यो गोदोहः, अस्वयम्भुव इत्यव् । आदिवृद्धिः । ५-धुट इति तृतीयः, प्रत्यये चेति पञ्चमः ।