________________
३५८
हैमनूतन लघुप्रक्रिया
दौ काण्डम् । दुया विकारो दौ भस्म | बिल्वस्याarat विकारो बैल्वं काण्डं भस्म च ।
अभक्ष्याच्छादने वा मयट् | ६ |२|४६ || षष्ठ्यन्ताद् भक्ष्याच्छादनवर्जिते विकारेऽवयवे च यथायोगं मयट् वा भवति । भस्मनो विकारो भस्मैप्रयं भास्मैनम् । अश्ममयम्, आश्मम्, आश्मनम् । दूर्वामयं दौर्वम् । भक्ष्याच्छादने त्वणेव । मौद्गः सूपः कार्पासः पटः ॥
I
"
एकस्वरात् |६|२|४८ || एकस्वरान्नाम्नो यथासम्भवं भक्ष्याच्छादनवर्जे विकारेऽवयवे चार्थे नित्यं मयट् प्रत्ययो भवति । वाचो विकारो वाङ्मयेम् त्वङ्मयम् मृन्मयम्, गीर्मयैम् ॥
,
दोरप्राणिनः | ६ |२| ४९ || दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च मयट् प्रत्ययो भवति । अणोऽपवादः । आम्रमयम्, शाकमयम् ; तन्मयम् ॥
गोः पुरीषे | ६ |२|५० || गोशब्दात् पुरीषेऽर्थे मयटू प्रत्ययो भवति । गोः पुरीषं गोमयम् । पुरीषादन्यत्र विकारे प्रत्ययो वक्ष्यते ॥
1
५- नाम सिदिति पदत्वे नाम्नो न इति न लोपः । ६ - प्रक्षेऽण् । अणीत्यन्त्यस्वरादिलोपनिषेधः ।
१ - चज इति कः, घुट इति तृतीयः प्रत्यये चेति पञ्चमः । २भ्वादेर्नामिन इति दीर्घः ।