SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५७ हैमनूतनलघुप्रक्रिया पुरुषशब्दात् कृते हिते वधे विकारे समूहे चार्थे एयञ् प्रत्ययो भवति । पुरुषेण कृतः, पुरुषाय हितः, पुरुषस्य वधो विकारो वा पौरुषेयः। पुरुषाणां समूहः पौरुषेयम् ।। विकारे ।६।२॥३०॥ षष्ठ्यन्ताद्विकारे यथाविहितमणादयः प्रत्ययाः स्युः। द्रव्यस्यावस्थान्तरं विकारः॥ वाऽश्मनो विकारे ७४६३॥ अश्मन् शब्दस्याऽपदस्य विकारे विहिते तद्धिते परेऽन्त्यस्वरादेलुंग् वा भवति । अश्मनो विकार आश्मः, आश्मनः । भास्मनः । मार्तिकः॥ पुजतोः षोऽन्तश्च ।६।२॥३३॥ त्रपुजतु इत्येताभ्यां विकारे यथाविहितमण् प्रत्ययो भवति तयोश्च षोऽन्तो भवति । त्रापुषम् , जातुषम् ।। ___ पयोद्रोर्यः ।।६।२।३५॥ पयस् द्रु इत्येताभ्यां विकारे यः प्रत्ययो भवति। अण्मयटोरपवादः। पयस्यम् । द्रोर्दारुणो विकारो द्रव्यम् ॥ - प्राण्यौषधिवृक्षेभ्योऽवयवे च ।६।२॥३१॥ प्राण्यौपधिवृक्षवाचिभ्यः षष्ठ्यन्तेभ्योऽवयवे विकारे च यथाविहितमणादयः प्रत्ययाः स्युः। कपोतस्यावयवः कापोतं-सक्थि । कपोतस्य विकारः कापोतं मांसम् । दुर्वाया अवयवो १-अणीत्यन्त्यस्वरादिलोपनिषेधः । २-त्रपुणो जतुनो वा विकारः । ३-अयीति पर्युदासादपदत्यान्न रुः । ४-अस्वयम्भुव इत्यव् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy