________________
हैमनूतनलघुप्रक्रिया प्रत्यया भवन्ति । गोत्री, रथकट्या, वातूलः ।। __ पाशादेश्च ल्यः ।६।२।२५।। पाशादिभ्यो गोरथवातेभ्यश्च समूहे ल्या प्रत्ययो भवति । इकणादेरपवादः । पाश्या, तृण्या ॥ गव्याँ, रथ्या, वात्या ॥ - श्वादिभ्योऽञ् ।६।२।२६॥ श्वन् प्रकारेभ्यः समूहेऽञ् प्रत्ययो भवति । शुनां समूहः शौर्वम् ॥
अनीनाट्यहोऽतः ।७।४।६६॥ ईन्-अत्-अवर्जिते तद्धिते परे अपदस्याऽहनो योऽकारस्तस्य लुग् भवति । औह्नम् , दाण्डम्, चाक्रम् ॥ ____खलादिभ्यो लिन् ।६।२।२७॥ खलप्रकारेभ्यः समूहे लिन् प्रत्ययो भवति । खलानां समूहः खलिनी । पाशादित्वाल्ल्योऽपि । खल्या। ऊकानामूकिनी कुटुम्बानां कुटुम्बिनी । श्वादयः खलादयश्च प्रयोगगम्याः ॥
ग्रामजनबन्धुगजसहायात्तल् ।६।२।२८॥ एभ्यः समृहे तल् भवति । ग्रामता, जनता, बन्धुता, गजता, सहायता । लित्वात् स्त्रियामाप । इति रक्ताद्यर्थाः ॥
पुरुषात्कृतहितवधविकारे चैयञ् ।६।२।२९॥ ६-लित्वात्स्त्रियामाप् । ७-य्यक्य रत्यव् । ८-नोऽपदस्येत्यन्त्यस्वरादि- . लोपे द्वारादेरित्यौः । ९-अह्नां समूहः । १०-दण्डिनां चक्रियां च समूहः । नोऽपदस्येत्यन्त्यस्वरादिलोपः । .. .