________________
हैमनूतनलघुप्रक्रिया
३५५ हास्तिकम् , आपूपिकम् , शाकुलिकम् : कैदारिकम् ॥
धेनोरनत्रः ।६।२।१५॥ धेनुशब्दात्समूहेऽर्थे इकण् प्रत्ययो भवति न चेत्स नत्रः परो भवति ।। __ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ।७।४।७१॥ ऋवर्णान्तादुवर्णान्ताद् दोसू शब्दादिसन्तादुसन्ताच्छश्वदकस्माद्वर्जितात्तकारान्ताच्च परस्येकप्रत्ययस्य सम्बन्धिन इकारस्य लुग् भवति । धैनुकम् ।
ब्राह्मणमाणववाडवाद्यः ६।२।१६॥ एभ्यः समूहे यः प्रत्ययो भवति । ब्राह्मण्यम् , माणव्यम् , वाडव्यम् ।
गणिकाया ण्यः ।६।२।१७॥ गणिकाशब्दात् समूहे ण्यः प्रत्ययो भवति । गाणिक्यम् ॥
केशाद्वा ।।२।१८॥ केशशब्दात् समूहे ण्यः प्रत्ययो वा भवति । कैश्यम् , कैशिकम् । ___ वाऽश्वादीयः ।६।२।१९॥ अश्वशब्दात् समूहे ईयः प्रत्ययो वा भवति । अश्वीयम् , आश्वम् ॥
गोरथवातात्नलकट्यलूलम् ।६।२।२४॥ गो-रथचात इत्येतेभ्यः समूहे यथासंख्यं बल कट्यल् ऊल इत्येते - ८-हस्तिनीशब्देऽवर्णवर्णस्येतीकारलोपे नोऽपदस्थेत्यन्त्यस्वरादिलोपः । - १-धेनूनों समूहः, आदिवृद्धिः । २-अवर्णेवणेत्यलोपः । ३-गणिकानां
समूहः, अवर्णलोमांदिवृद्धी । ४-अलोपादिवृद्धी । ५-पक्षे षष्ठयाः समूह इत्यण् ।