________________
३५२
हैमनूतनलघुप्रक्रिया पिता मातामहः, मातुर्माता मातामही ॥ इत्यपत्याद्यर्थप्रक्रिया॥
रागाट्टो रक्ते ।६।२।१॥ रेज्यतेऽनेनेति रागः प्रसिद्धः कुसुम्भादिः। रागविशेषवाचिनो नाम्नस्तृतीया-- न्ताद रक्तमित्येतस्मिन्नर्थे यथाविहितमणादिः प्रत्ययो भवति । कुसुम्भेन रक्तं वस्त्रं कौमुम्भम् । काषायम् , माञ्जिष्ठम् , हारिद्रम् , कौकुमम् । वाऽधिकारात् पक्षे समासो वाक्यं च । एवं सर्वत्र तद्धितेऽभ्यूह्यम् ।
लाक्षारोचनादिकण् ।६२।२॥ लाक्षा, रोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे इकण प्रत्ययो भवति । अणोऽपवादः। लाक्षिकम् । रौचनिकम् ॥
शकलकदमाहा ।६।२।३॥ शकल-कर्दम-इत्येताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो वा भवति । शाकलिकम् , कार्दमिकम् । पक्षेऽण्-शाकलम् , कार्दमम् ॥ . नीलपीतादकम् ।६२।४॥ नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अ, क . 'इत्येतौ प्रत्ययौ भवतः। नीलेन,
२-इह शुक्लस्य वर्णान्तरापादनं रञ्जनं बोध्यम् । ३-आलोपादिवृद्धी ।