SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३५१ इत्-आवन्त्यः, अवन्तयः । कौशल्यः, कौशल्या, कोशलाः । आजाद्यः, अजादाः ॥ ___पाण्डोड्यण् ।६।१।११९॥ पाण्डुशब्दाद्राष्ट्रक्षत्रियवाचिनः सरूपाद् यथासङ्ख्यं राजन्यपत्ये चार्थे ड्यण प्रत्ययो भवति सच द्रिसंज्ञः। पाण्डेयः, पाण्डवः । पाण्डवा इति तु कुरुराजविशेषार्थात्पाण्डुशब्दादपत्ये शिवायण ॥ __शकादिभ्यो नेर्लुप् ।६।१।१२०॥ शक इत्येवमादिभ्यः परस्य द्रिसंज्ञकस्य प्रत्ययस्य लुप् भवति । शकः, यवनः । शकादयः प्रयोगगम्याः॥ पितृमातुर्व्यडुलं भ्रातरि ।६।२।६२॥ पितृमातृभ्यां षष्ठ्यन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्यडुल इत्येतो प्रत्ययौ भवतः। पितुर्भ्राता पितृव्यः। मातुर्धाता सांतुलः ॥ पित्रो महट् ।३।२।६३॥ पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां मातापित्रो च्ययोर्डामहट् प्रत्ययो भवति । पितुः पिता पितामहः। पितुर्माता पितामही, मातुः ५-डित्त्वादन्त्यस्वरादिलोपः, बहुत्वे पाण्डवः । ६-संज्ञात्वाद् दिसंज्ञा, ज्यस्य लुप् । ७-ङित्त्वादन्त्यस्वरादिलोपः । २-डित्त्वादन्त्यस्वरादि लोपः, स्त्रियां टिवान्डीः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy