SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५० हैमनूतनलघुप्रक्रिया “विदेहस्य राज्ञोऽपत्यं वैदेहः । बहुत्वे विदेहाः । ___ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मया 1७४।३०॥ सारवादयः शब्दा अणादिप्रत्ययान्ताः कृताय लोपादयो निपात्यन्ते । ऐश्वोकः, इक्ष्वाकवः, पाञ्चाला पश्चालाः ॥ सरूपादिति किम् ? दाशरथिः, त्रैपृष्ठिः ॥ पुरुमगधकलिङ्गसूरमसद्विस्वरादण् ।६।१।११६॥ पुरु-मगध-कलिङ्ग-सूरमस इत्येतेभ्यो द्विस्वरेभ्या सरूपेभ्यो यथासंख्यं राजन्यपत्ये चार्थे दिरण प्रत्ययों भवति । अनोऽपवादः । पौरवः, पुरवः । मागधा, मगधाः। कालिङ्गः, कलिङ्गाः । सौरमसः, सरमसाः, आङ्गः, अङ्गाः, वागः, वङ्गाः । सर्वत्र बहुषु लुम् ॥ दुनादिकुर्विकोशलाजादाञ् व्यः ।६।१।११८॥ 'दुसंज्ञकेभ्यो नकारादिभ्यः कुरुशब्दाद् इकारान्तेभ्यक कोशल, अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियः । “वाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च ज्या प्रत्ययो भवति स च द्रिसंज्ञः। दु-आम्बेष्ठ्या आम्बष्ठाः। नैषध्यः, निषधाः। कुरु-कौरव्यः, कुरवः ।। .१-वृद्धथुलोपौ। २-अत इञ् । त्रैपृष्ठस्तु दाशरथवत्समाधेयः । शिवादि-. पाठादण् । ३-पुरूणां पुरोर्मगधानां मगधस्य कलिङ्गानां कलिङ्गस्य सूरमसानां, सूरमसस्य राजाऽपत्यं च । ४-वृद्धयकारेकारलोपावादेशा यथासंभवं बोध्याः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy