SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३४९ अवृद्धादोनवा ।६।१।११०॥ अवृद्धवाचिनो दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः, आम्रगुप्तिः ॥ पुत्रान्तात् ।६।१।१११॥ पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गार्गीपुत्रायणिः । गार्गीपुत्रिः। अदोरायनिः प्रायः ।६।१।११३॥ अदुसंज्ञकाद-- पत्ये आयनिः प्रत्ययो भवति प्रायः। ग्लुचुकायनिः, ग्लौचुकिः, त्रिपृष्ठायनिः, त्रैपृष्ठिः ॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ।६।१।११४॥ क्षत्रियवाचिसरूपात् राष्ट्रवाचिनो राष्ट्रवाचिस्सरूपाच्च क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चाञ् प्रत्ययो भवति, स च दिसंज्ञो भवति । विदेहानां राष्ट्रस्य राजा वैदेहः ॥ बहुष्वस्त्रियाम् ।६।१।१२४॥ द्रथन्तस्य शब्दस्य बहुषु वर्तमानस्य यो द्रिः प्रत्ययः तस्याऽस्त्रियां लुप् भवति । विदेहानां राष्ट्रस्य राजानो विदेहाः। एवं ४-आम्रगुप्तस्यापत्यम् । अकारलोपः । ५-अवर्णेवर्णस्येत्यकारलोपः । अतः इजितीञ् प्रत्ययः । ६-गार्गीपुत्रस्यापत्यम् , वृद्धिरिति दुसंज्ञा । पक्षेऽत इञ् । ७-ग्लुचुकस्यापत्यम् , पक्षेऽत छ ।८-वृद्धबल्लोपौ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy