________________
हैमनूतनलघुपकिया
. १९
सकारान्तादेशो भवत्यनुखारानुनासिकौ च पूर्वस्य । संस्कर्ता
सँस्कर्ता ॥
द्विः कालः कानि सः | १|३|११|| द्विरुक्तस्य कानः कानि परे सकारान्तादेशो भवति, अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान्, कस्कान् ॥
तौ मुमो व्यञ्जने स्त्रौ |१|३|१४|| मु इत्यागमस्य पदान्तस्थस्य च मकारस्य व्यञ्जने परे तस्यैव स्वौ तावनुस्वारानुनासिक क्रमेण भवतः । त्वं करोषि त्वङ्करोषि । त्वं चारुः, त्वञ्चारुः । त्वं टीकसे, त्वण्टीकसे । त्वं तरसि वन्तरसि। त्वं पचसि त्वम्पचसि । संगतः, संय्यतः ॥
म्नां धुड्वर्गेऽन्त्योऽपदान्ते | १|३|३९|| अपदान्तस्थानां मकारनकाराणां घुट्टसंज्ञके वर्गे परे तस्यैवाऽन्त्योऽनु भवति । गन्ता, शङ्किता, कम्पिता ॥
शिड्हेऽनुस्वारः : | १|३|४०|| अपदान्तस्थानां नां स्थाने शिटि इकारे च परे अनुस्वारादेशो भवति अतु । पुंसि, यशांसि ।
वात् श्रर इति स्थिते
नः शिवः | १|३ | १९ ॥ पदान्तस्थस्य नकारस्य स्थाने १ - स्वेत्यनुनासिकस्यैव विशेषणं चोभ्यम् ।