________________
हैमनूतनलघुप्रक्रिया शकारे परे च्च् इत्यादेशो वा भवति । श्च् इति संयोगावयवश्चेत् शकारो न भवति । भवाञ्चू शूर इति जाते
प्रथमादधुटि शश्छः ।१।३।४॥ पदान्ते प्रथमात्परस्य शकारस्य स्थाने अधुटि परे छकारादेशो वा भवति । भवाञ्च छूर इति जाते
धुटोधुटि स्वे वा ।१।३।४८॥ व्यञ्जनात् परस्य धुटो धुटि स्वे परे लुग् वा भवति । भवाञ्छूरः, भवाञ्च्छूरः, भवाञ्च् शूरः, भवाञ् शूरः। ___णोः कटावन्तौ शिटि नवा ।१।३।१७।। पदान्तस्थयोर्डकारणकारयोः शिटि परे क्रमेण क् टू इत्येतावन्तौ वा भवतः । प्राङ्गक्छेते, प्राङ्कोते, प्राडूशेते । सुगण्छेते,. मुगण्ट्ोते, सुगणशेते ॥
हूस्वाद ङणनो द्वे ।१।३।२०॥ ह्रस्वात्परेषां पदान्तस्थानां पन् इत्येषां वर्णानां स्थाने स्वरे परे द्वे रूपे भवतः। क्रुङास्ते, सुगण्णिह, पचनास्ते ॥
ड्नः सा त्सोऽश्वः ॥१३॥१८॥ पदान्तस्थाद् डकारानकाराच्च परस्य सकारस्य स्थाने त्स् इत्यादेशो वा भवति । श्च संयोगावयवश्चेत् सकारो न भवति । षड्त्सीदन्ति, १-अस्य सूत्रस्याऽत्रानुल्लेखस्तु न्यून इति स्पष्टमेव । २-सूत्रे डकारनिर्देशान्न प्रथम इति बोध्यम् । तवर्गस्येति टवर्गोऽपि न, पदान्ताहवर्गादिति निषेधात् ।