________________
हैमलघुनूतनप्रक्रिया
३४७ जातौ राज्ञः ।।१।९२॥ राजन् शब्दादपत्ये जातो गम्यमानायां यः प्रत्ययो भवति ॥ । अनोऽट्ये ये ७।४।५१॥ अनित्येतदन्तस्य ट्यवर्जे ये प्रत्यये परे अन्त्यस्वरादेखेंग न भवति । राजन्यः: क्षत्रियजातिः ॥
क्षत्रादियः ।६।१।९३॥ क्षत्रशब्दादपत्ये इयः प्रत्ययो भवति जातौ गम्यमानायाम् । क्षत्रियः, जातिश्चेत् ।।
मनोर्याणी पश्चान्तः।६।११९४॥ मनुशब्दादपत्ये य अण् इत्येतौ प्रत्ययौ भवतस्तद्योगे च मनुशब्दस्य षकारोऽन्तो भवति जातौ गम्यमानायाम् । मनुष्याः, मानुषाः, अपत्यमात्रविवक्षायां जातेरगम्यमानत्वेऽणेव, मानवः । वृद्धापत्ये गर्गादित्वाद् यञ्, मानव्यः ॥
_ माणवः कुत्सायाम् ।६।१।९५॥ कुत्सायां गम्यमानायां मानव इत्यपत्येऽणि नकारस्य णकारादेशो निपात्यते । मनोरपत्यं कुत्सितं मूढं माणवः ।।
कुलादीनः ।६१९६॥ कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये ईनः प्रत्ययो भवति । कुलीनः । द्विजकुलीनः, ईपदसमाप्तं कुलं बहुकुलं तस्यापत्यं बहुकुलीनः ।।
३-नोऽपदस्येति प्राप्तो लोपो निषिध्यते । ४-मनोरपत्यम् , अस्वयम्भुवोऽवित्यव् । ५-कुलस्यापत्यम् , अवर्णलोपः।