________________
३४६
हैमनूतनलघुप्रक्रिया . चतुष्पादभ्य एयञ् ।६।१।८३॥ चतुष्पादवाचिभ्यो ङसन्तेभ्योऽपत्ये एयञ् प्रत्ययो भवति । अणादीनामपवादः। शाबलेयः, बाहुलेयः, सौरभेयः॥
वृद्धस्त्रियाः क्षेपे णश्च ।६।१८७॥ वृद्धापत्यान्तास्त्रीवाचिनः शब्दादपत्ये णः प्रत्ययो भवति, चकारादिकण् च क्षेपे गम्यमाने । गार्गः, गार्गिको वा जाल्मः॥
भ्रातुर्व्यः ।६।१।८८॥ भ्रात् शब्दादपत्ये व्यः प्रत्ययो भवति । भ्रातुरपत्यं भ्रातृव्यः ॥
ईयः स्वसुश्च ।६।१।८९॥ भ्रातृशब्दात्स्वमृशब्दाच्चापत्ये ईयः प्रत्ययो भवति । भ्रीत्रीयः, स्वस्रीयः ॥ ___ मातृपित्रादेयणीयणौ ।६।१।९०॥ मातृपित्रादेः स्वसशब्दान्तान्मातृस्वसृपितृष्वमृशब्दाच्चापत्ये डेयणीयणौ प्रत्ययौ भवतः। मातृध्वंसेयः, मातृष्वतीयः । पैतृष्वसेयः, पैतृष्वस्त्रीयः । परममातृष्वसुरपत्यमित्यादौ मातुः स्वशुरपत्यमित्यादौ च न भवति ॥ __ श्वशुराद्यः।६।१।९१॥ श्वसुरशब्दादपत्ये यः प्रत्ययो भवति । श्वशुयः ॥
८-शबलाया बहुलायाः सुरभेश्वाऽपत्यम् । ९-गार्या अपत्यम् । १०-इवर्णादेरिति रः । १-डित्यन्त्यस्वरादे क् । २-श्वशुरस्यापत्यम् , अवर्णेवर्णस्येत्यलोपः ।