SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३४५ ____ अनुशतिकादीनाम् ।७।४।२७॥ अनुशतिक इत्येवमादीनां शब्दानां णिति तद्धिते परे पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । पारस्त्रैणेयः ॥ __ कुलटाया वा ।६।१७८॥ कुलटाशब्दादपत्ये एयण प्रत्ययो भवति तत्सन्नियोगे इन् च वाऽन्तादेशः। कौलटिनेयः । आदेश एव विकल्प्यते, कौलटेयः॥ . चटकाण्णैरः स्त्रियां तु लुप् ।६।११७९॥ चटकशब्दान्डसन्तादपत्यमात्रे गैरः प्रत्ययो भवति, स्त्रियां त्वपत्ये विहितस्य गैरस्य लुप् । चाटकैरः, स्त्र्यपत्ये लुप्-चटका ॥ क्षुद्राभ्य एरण या ।६।१८०॥ क्षुद्रावाचिभ्यः शब्देभ्यो ङसन्तेभ्यः स्त्रीलिङ्गेभ्योऽपत्ये एरण प्रत्ययो वा भवति । अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः। अणेयणोऽपवादः । काणेरैः, काणेयः, दासेरः, दासेयः नाटेरः, नाटेयः । गोधाया दुष्टे णारश्च ।६।१।८१॥ गोधाशब्दान्ङसन्ताद् दुष्टेऽपत्ये णारश्वकारादेरण् प्रत्ययो भवति । गौंधारः, गौधेरः । अदुष्टे तु गौधेयः । २-परस्त्रिया अपत्यम् , एकपदत्वाणत्वम् । ३-कुलस्याऽटा कुलटा, तस्या अपत्यम् । ४-चटकस्य चटकाया वाऽपत्यम् । ५-काण्या अपत्यम् , अवर्णेवर्णस्येतीकारलोपः । ६-याप्त्यूङ इत्येयण । एवं दास्या नट्याश्चाऽपत्यम् । ७-गोधाया अपत्यम् , योऽहिना गोधायां जन्यते सः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy