________________
३४४
हैमनूतनलघुप्रक्रिया कामण्ड लेयः।
द्विस्वरादनद्याः ।६।१।७१॥ द्विस्वराद् ङ्याप्त्यूङन्ता दनदीवाचिनोऽपत्ये एयण् प्रत्ययो भवति । दात्तेयः । नदीवाचिनस्तु सैतः, सैप्रः, रैवः ।
इतोऽनिकः ।६।११७२॥ इनन्तवर्जिताद् द्विस्वरादि कारान्तादपत्ये एयण प्रत्ययो भवति । नाभेयः, नैधेयः ।। अनित्र इति किम् ? दाक्षायणः । अद्विस्तरात्तु मारीचः ॥
शुभ्रादिभ्यः ।६।११७३॥ शुभ्रादिभ्योऽपत्ये एयण प्रत्ययो भवति । इञादीनामपवादः । शौभ्रेयः, गाङ्गेयः,, वैमात्रेयः॥
कल्याण्यादेरिन् चान्तस्य ।६।१७७॥ कल्याण्यादिभ्योऽपत्ये एयण प्रत्ययो भवति इन् इत्ययमन्तस्य चादेशः । काल्याणिनेयः। माध्यमिनेयः॥
हृद्भगसिन्धोः ।७।४।२५॥ हृद्भगसिन्धु इत्ये वमन्तानां णिति तद्धिते परे पूर्वपदस्योत्तरपदस्य की स्वरेवादेः स्वरस्य वृद्धिर्भवति । सौभागिनेयः ।
P
INTAN
नयः ।
६-कमण्डल्वा अपत्यम् । ७-दत्ताया अपत्यम् । ८-नाभेनिधेश्चापत्यम् । . ९-मरीचेरपत्यम् । १०-विमातुरपत्यम् । इबर्णादेरिति रः । १-सुभगाया अपत्यम् ।