________________
-
हैमनूतनलघुप्रक्रिया रसः, कुत्साः, वशिष्ठाः, गोतमाः। ऋष्यणो लुप् । अत्रयः, इतोऽनिब इत्ये यणो लुप् ॥
संख्यासंभद्रान्मातुर्मातुर् च ।६।१६६॥ संख्यावाचिनः सम् भद्र इत्येताभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽग् प्रत्ययो भवति मातुश्च मातुरित्यादेशः। द्वयो. त्रिोरपत्यं द्वैमातुरो गणेशः । पाण्मातुरः स्कन्दः । शातमातुरो भरतः, सामातुरः, भाद्रमातुरः ॥
अदोनदीमानुषीनाम्नः ।।१।६७।। अदुसंज्ञकानदीनाम्नो मानुषीनाम्नश्चाऽपत्येऽण् प्रत्ययो भवति । एयणोऽग्वादः । यामुनः, देवदैत्तः ॥
झ्याप्त्यूङः ।६।११७०॥ ङ्यन्तादाबन्तात्त्यन्तादृङन्ताच अपत्ये एयण प्रत्ययो भवति । सौपर्णेयः, वैनतेयः, यौवतेयः॥
अकद्रूपाण्ड्वोरुवर्णस्यैये ।।४।६९॥ कद्रूपाण्डुशब्दवर्जितस्य उवर्णान्तस्य एये तद्धिते परे लुग् भवति ।
२-द्वयोर्मात्रोरपत्यमित्यर्थे द्विओसमातृओसित्यवस्थायां तद्धितार्थे समासो विभक्तिलुगण प्रत्ययो मातुरादेशश्चादिवृद्धिश्च । एवं षण्णां मातॄणामपत्यम् । संगता भद्रा वा माता भद्रस्य वा माता, तस्या अपत्यम् , शतस्य माता, तस्या अपत्यम् । ३-यमुनाया अपत्यम् । ४-देवदत्ताया अपत्यम् । ५-सुपर्णाया विनतायाश्चाऽपत्यम् ।