________________
३४०
हैमनूतनलघुप्रक्रिया . यात्रोऽश्यापर्णान्तगोपवनादेः ।६।१।१२६॥ यत्रन्तस्याऽअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः से प्रत्ययस्तस्याऽस्त्रियां लुप् भवति । गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा । बिदस्य वृद्धापत्यानि बिदाः। कश्यपाः, उर्वाः, भरद्वाजाः ॥
गर्गादेर्यञ् ।६।१।४२॥ गर्गादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे यञ् प्रत्ययो भवति । गर्गस्य वृद्धापत्यं गार्ग्यः । वात्स्यः, गर्गाः, वत्साः । अनन्तरापत्ये तु वैदिः, गागिः॥
कुञ्जादेायन्यः।६।१।४७॥ कुञ्जादिभ्यो डसन्तेभ्यो वृद्धेऽपत्येऽर्थे बायन्यः प्रत्ययो भवति । कौञ्जायन्यः, नाघ्नायन्यः॥
स्त्रीबहुष्वायन ।६।१।४८॥ कुञ्जादिभ्यो ङसन्तेभ्यो बहुत्वविशिष्टे वृद्ध स्त्रियां वा बहुत्वेऽपि आयनञ् प्रत्ययो भवति । कौञ्जायनाः॥ ___ अश्वादेः ।६।११४९॥ अश्वादिभ्यो ङसन्तेभ्यो वृद्ध ऽपत्ये आयन प्रत्ययो भवति । आश्चार्यनः । शाखायनः ।
४-यञ् अञ् च । ५-प्रत्ययस्य लोपे अितोऽभावान्न वृद्धिः । ६-इनि वृद्धयल्लोपौ । बिदस्यानन्तरापत्यमिति । ७-कुञ्जस्यापत्यं वृद्धम् । ८'कुञ्जस्याऽपत्यानि । ९-अश्वस्य वृद्धांपत्यम् ।..