________________
हैमनूतनलघुप्रक्रिया भूयस् , सम्भूयस् अम्भस् अमितौजस् इत्येतेभ्योऽपत्येर्थे इञ् प्रत्ययो भवति, सकारलोपश्चेषाम् । भौयिः", साम्भूयिः, आम्भिः, आमितौजिः। __व्यामवरुटसुधातृनिषादबिम्बचण्डालादन्त्यस्य चाऽक् ।६।१।३८॥ व्यासादिभ्योऽपत्येऽर्थे इञ् प्रत्ययो भवति तत्सन्नियोगे चैषामक् इत्ययमन्तादेशो भवति ॥
रवः पदान्तात्प्रागैदौत् ।७।४।५॥ ब्णिति तद्धिते इवर्णोवर्ण योवृद्धिप्रसङ्गे तयोरेत्र स्थाने यौ यकारवकारी पदान्तौ ताभ्यां प्राक् यथासंख्यमैत् औत् इत्येतावागमौ भवतः । वैयाँसकिः, वारुटकिः, सौधातकिः, नैपादकिः, वैम्बकिः, चाण्डालकिः ॥ ___ पुनर्भूपुत्रदुहितुन नान्दुरनन्तरेऽञ् ॥६॥१॥३९॥ पुनर्भू-पुत्र-दुहित-ननान्ड इत्येतेभ्यो उसन्तेभ्योऽनन्तरेऽपत्येऽर्थे अञ् प्रत्ययो भवति । पौनर्भवः, पौत्रः, दौहित्रः, नानान्द्रः।
विदादेवृद्धे ।६।१४१॥ बिदादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे अञ् प्रत्ययो भवति । बैदैः, और्वः, काश्यपः, भारद्वाजः॥
१७-सलोपेऽकारलोपः। १-व्यसनं व्यासः, तत्क्रियायोगात्पुरुषोऽपि व्यासः, तस्यापत्यम् । वीत्युपसर्मकारस्य पदान्तस्य स्थाने यकारोऽपि पदान्त इति बोध्यम् । २-इवर्णादेरिति रः । ३-बिदस्य वृद्धापत्यम् । एवमग्रेऽपि वृद्धथल्लोपौ